पाणिनिकृत-अष्टाध्याय्यां जनपदानां वर्णनम्
Abstract
पाणिनिकृत-अष्टाध्याय्यां न केवलं व्याकरण-सम्बन्धित-सूत्राणां वर्णनमस्ति अपितु सूत्रमाध्यमेन तात्कालिक-जनपदानां वर्णनमपि अकरोत् । यैः तात्कालिक-इतिहासस्य ज्ञानमपि भवति । सूत्रकाले जनपदो भारतीयभूगोलस्य अति महत्त्वपूर्णशब्दः आसीत् । वस्तुतः भारतीयेतिहासे युग-विभागदृष्ट्या सूत्रकालस्य उचितं नामकरणं महाजनपदयुगोऽस्ति । तदानीं अखिलदेशः जनपदेषु विभक्तो आसीत् । तेषां विस्तृत-नामावलयः भुवकोशस्य नाम्ना लिपिबद्धाः कृताऽऽसीत्, याः महाभारतादिप्राचीनग्रन्थेषु सुरक्षिताः सन्ति ।
पाणिनीय-भूगोलस्य प्रधानाङ्गं जनपदविभागमस्ति । सांस्कृतिक-राजनैतिक-भौगौलिक भाषायाश्च दृष्ट्या प्रत्येकं जनपदस्स्वाभाविक-अन्विति भवतिस्म । यूनानी-पुरराज्यवत् एव प्रायः तदानीम् अस्मिन् देशे जनपदराज्यानां समूहः सम्पूर्णदेशे प्रासरत् । काशिकाकारः ग्रामस्य समूहो जनपदोऽकथयत् । अत्र ग्रामशब्दे नगरस्यापि अन्तर्भावोऽवगच्छेत् । वस्तुतः जनपदे नगर-ग्रामाश्च सम्मिलिताः आसन् । जनपदानां राजनैतिक-सीमाः परिवर्तिताः भवन्तिस्म, किन्तु तेषां सांस्कृतिकजीवनस्य प्रवाहः अजस्रम् आसीत् । भाषायाः अन्वितेः रूपे कियन्तः प्राचीनजनपदाः इदानीम् अवशिष्टास्सन्ति, यथा – पैशाची-भाषायाः क्षेत्रं दरद्जनपदः, व्रजोपभाषयाः शूरसेनजनपदः, कोसली-भाषायाः कोसलजनपदः, मगधी-भाषायाः मगधजनपदः इत्यादयः ।
References
शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते ।
प्रकण्वो देशः - काशिका
मार्कण्डेयपुराण – 57/39
द्वैपवैयाघ्रादञ् – 4-2-11
सिन्ध्वकराभ्यां कन् – 4-3-32
ब्राह्मणकोष्णिके संज्ञायाम् - 5-2-71, वा. 30
ब्राह्मणको नाम जनपदः – 4-2-104
मनुष्यतत्स्थयोर्वुञ् – 4-2-134
कच्छाग्निवक्त्रगर्त्तोत्तरपदात् – 4-2-125
केकयमित्रयुप्रलयानां यादेरियः – 7-3-2
मद्रवृज्योः कन् – 4-2-130
विभाषोशीनरेषु – 4-2-117
महाभारत – वन. – 194-2
अम्बाम्बगोभूमिसव्य ..................... स्थः । 8-3-97
राजन्यादिभ्यो वुञ् । 4-2-52
Downloads
Published
How to Cite
Issue
Section
License
This work is licensed under a Creative Commons Attribution-NonCommercial 4.0 International License.